रावणः सीतां नयति।
- रावणेन सीता नीयते।
आञ्जनेयः रामं नमति।
- आञ्जनेयेन रामः नम्यते।
बालकः रोटिकां खादति।
- बालकेन रोटिका खाद्यते।
शिष्यः श्लोकं लिखति।
- शिष्येण श्लोकः लिख्यते।
आचार्यः श्लोकं पाठयति।
- आचार्येण श्लोकः पाठ्यते।
आचार्यः संस्कृतं पाठयति।
- आचार्येण संस्कृतं पाठ्यते।
गणेशः वस्त्रं प्रक्षालयति।
- गणेशेन वस्त्रं प्रक्षाल्यते।
छात्रः विद्यालयं गच्छति।
- छात्रेण विद्यालयः गम्यते।
भक्तः देवस्य मूर्तिं पश्यति।
- भक्तेन देवस्य मूर्तिः दृश्यते।
शिष्यः श्लोकान् लिखति।
- शिष्येण श्लोकाः लिख्यन्ते।
आचार्यः पाठान् पाठयति।
- आचार्येण पाठाः पाठ्यन्ते।
छात्रः पाठान् पठति।
- छात्रेण पाठाः पठ्यन्ते।
आञ्जनेयः रामस्य चरणौ नमति।
- आञ्जनेयेन रामस्य चरणौ नम्येते।
अनिलः विद्यालयं चालयति।
- अनिलेन विद्यालयः चाल्यते।
अनिलकिशोरौ विद्यालयं चालयतः।
- अनिलकिशोराभ्यां विद्यालयः चाल्यते।
मधुकरः संस्कृतं पठति।
- मधुकरेण संस्कृतं पठ्यते।
मधुकरः संस्कृतसङ्गीते पठति।
- मधुकरेण संस्कृतसङ्गीते पठ्येते।
कृषकः वृषभं मारयति।
त्वं वाक्यं कथयसि।
- त्वया वाक्यं कथ्यते।
ईश्वरः त्वां रक्षति।
- ईश्वरेण त्वं रक्ष्यसे।
शिक्षकः त्वां मारयति।
- शिक्षकेण त्वं मार्यसे।
शिक्षकः युवां मारयति।
- शिक्षकेण युवां मार्येथे।
महेशः त्वां पश्यति।
- महेशेन त्वं दृश्यसे।
त्वं महेशं पश्यसि।
- त्वया महेशः दृश्यते।
त्वं रोटिकां खादसि।
- त्वया रोटिका खाद्यते।
त्वं रोटिकाः खादसि।
- त्वया रोटिकाः खाद्यन्ते।
रोटिका त्वां खादति। रोटिका तुम्हे खाती है।
- रोटिकया त्वं खाद्यसे। रोटी से तुम खाए जाते हो।
यूयं संस्कृतं पठथ।
- युष्माभिः संस्कृतं पठ्यते।
अहं गणेशं नमामि।
- मया गणेशः नम्यते।
गणेशः मां रक्षति।
- गणेशेन अहं रक्ष्ये।
अहं गृहं गच्छामि।
- मया गृहं गम्यते।
अहं मन्दिरं गच्छामि।
- मया मन्दिरं गम्यते।
वयं संस्कृतं पठामः।
- अस्माभिः संस्कृतं पठ्यते।
आवां संस्कृतं पठावः।
- आवाभ्यां संस्कृतं पठ्यते।
जननी मां मारयति।
- जनन्या अहं मार्ये।
अहं मातरं वन्दे।
- मया माता वन्द्यते।
ईश्वरः अस्मान् रक्षति।
- ईश्वरेण वयं रक्ष्यामहे।
अहं चन्द्रं पश्यामि।
- मया चन्द्रः दृश्यते।
चन्द्रः मां पश्यति।
- चन्द्रेण अहं दृश्ये।